Sunday 26 June 2011

भव निर्भयः

यथा प्रातः निशा च स्तः
सुखदुःखे तथैव तु ।
तस्माद्विहाय तां चिन्तां
त्वं शान्तः भव निर्भयः॥

अस्य श्लोकस्य छन्दः अनुष्टुप्। छन्दसः लक्षणम् एवं वर्णितम् |


श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम्।

द्विचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः॥

प्रतिपादे अष्टाक्षराणि भवन्ति।

No comments:

Post a Comment