Showing posts with label anushtup. Show all posts
Showing posts with label anushtup. Show all posts

Sunday, 30 June 2013

क्रुद्धा कुतोऽसि मातस्त्वम्

क्रुद्धा कुतोऽसि मातस्त्वम्
अशक्याः धारणे वयम् |
किं तु मन्यन्ति युष्माभिः
अहमबाधितेति वा ||

Sunday, 23 October 2011

किं भो रङ्ग शयानोऽसि

किं भो रङ्ग शयानोऽसि
कावेरीहृदये वसन् |
कुतस्ते जात आयासः
भूभारहरणेन वा ||

ऎषः श्लोकः अपि अनुष्तुप्छन्दसि वर्तते | ऎषः श्रीरङ्गक्षेत्रस्य तत् क्षेत्रॆ स्थितस्य रङ्गनाथस्य च वर्णनम् |

Sunday, 26 June 2011

भव निर्भयः

यथा प्रातः निशा च स्तः
सुखदुःखे तथैव तु ।
तस्माद्विहाय तां चिन्तां
त्वं शान्तः भव निर्भयः॥

अस्य श्लोकस्य छन्दः अनुष्टुप्। छन्दसः लक्षणम् एवं वर्णितम् |


श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम्।

द्विचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः॥

प्रतिपादे अष्टाक्षराणि भवन्ति।